Padma Puran - Sri Maha Lakshmi Ashtakam with Lyrics and Meaning । अथ श्री महालक्ष्म्यष्टकं
Padma Puran - Sri Maha Lakshmi Ashtakam Lyrics with Meaning in English and Hindi ।। श्री महालक्ष्म्यष्टकं ।। Shri Mahalakshmi ।। श्री महालक्ष्म्यष्टकं ।। इन्द्र उवाच नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्खचक्रगदाहस्ते महालक्ष्मि नमोस्तु ते॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रपुते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मा त: महालक्ष्मि नमोऽस्तु ते ॥७॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मात:महालक्ष्मि नमोऽस्तु ते ॥८॥ महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ एककाले पठेन्